देवदेशो मदीय:
किञ्चोल्लेख्यं ? मम तु कवितातत्त्वमस्तं प्रयाति । अस्याः कान्या भवति कविता ? या स्वयं काव्यरूपा

- मनाेजः भण्डारी
देवघट्टम्
कश्चित्पृच्छेदमरसदनं विद्यते क्व द्वितीयम् ।
पृच्छेत्कश्चित्कमधिनिवसन् प्रस्तरो लोकनाथ: ।
पृच्छेत्कश्चिद् यदि बहुसुरा मानुषा: कुत्र सन्ति ।
को गृह्णीयान् न खलु सहसा देवदेशस्य नाम ।
।१।
विष्वक्सेनो रजतशिखरं चारुरुक्षु: सुरेशो ।
ध्यायं ध्यायं गिरिशगिरिजे मुक्तिनाथोऽत्र चाभूत् ।
नृत्तं कुर्वन् नट इव हर: श्रीहरे: सत्कथायाम् ।
क्वानाथोऽयं पशुपतिपतिर्देवदेशो मदीय: ।
।२।
केनापीतं प्रवहदमृतं शुभ्रनारायणीयम् ?
केनास्पृष्टौ श्वशुरसदने रामचन्द्रस्य पादौ ?
केनाबुद्धः कपिलनगरे बुद्धदेवावतार: ?
पूता भूता मम जनिधरा केन नैवानुभूता ?
।३।
प्रातर्दृष्टा जनकतनया स्वाङ्गणं लिम्पमाना ।
यत् पूर्वाह्णे गिरिवरसुता कन्दुकै: क्रीडमाना ।
सायङ्काले तु जडभरत: सान्ध्यकृत्येषु दृष्ट: ।
सोऽसौ पुण्यो नु धरणितले मित्र! केनास्ति सृष्ट : ?
।४।
क्षेत्रे स्वर्णं युवजनमुखे स्वाभिमानप्रकाशं ।
दर्शं दर्शं झमकभृकुटीभ्रूकुटीनां विलासम् ।
स्थातुं वाञ्छन्नपि सुरगणैः साकमत्रामरेन्द्रश्
चेत: कर्तुं सपदि विजितं नाशकन्मानवानाम् ।
।५।
यन्मृत्स्नायां लसति रुचिरं लेखनाथस्य काव्यम् ।
हासं हासं किरति कवितां देवकोटा विचित्राम् ।
किञ्चोल्लेख्यं ? मम तु कवितातत्त्वमस्तं प्रयाति ।
अस्याः कान्या भवति कविता ? या स्वयं काव्यरूपा
।६।
-मन्दाक्रान्तावृत्तम् ।
भवतः का प्रतिक्रिया ?






