कारकलक्षणम् - नव्यव्याकरणं बिषयचिन्तनम्

क्रियाजनकत्वं कारकत्वमिति कारकसामान्यलक्षणम् । तच्च जनकत्वंकारणत्वरूपम् ।

कारकलक्षणम् - नव्यव्याकरणं बिषयचिन्तनम्
  •                                                                                                           सह प्रा. पुरुषाेत्तमः खतिवडा
  •                                                                                                           पिण्डेश्वरविद्यापीठम्, धरानः 


             क्रियाजनकत्वं कारकत्वमिति कारकसामान्यलक्षणम् । तच्च जनकत्वंकारणत्वरूपम् । कारणत्वञ्चान्यथासिदिशून्यत्वे सति कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्यसमानाधिकरणात्यन्ताभावप्रतियोगिता नवच्छेदकधर्मवत्वम् । एवञ्च चैत्रस्य तण्डुलं पचतीत्यादौ चैत्रस्यान्यथासिद्धत्वेनक्रियाजनत्वां भावान्न कारकत्वम् । सम्प्रदानस्य तु अनुमतिप्रकाशनद्वारा क्रियाजनकत्वम् । अनुमतिसत्वे दानस्य प्रवृतिः, तदभावे तदभावेत्यन्वयव्यतिरेकाभ्याम् । एवं आस्ते इत्यादौ अधिकरणकारकस्यापि स्थितिं प्रति कारणत्वात् क्रियाजनकत्वमक्षुण्णमेव । न च घटं करोतीत्यादौ घटस्यानुत्पन्नत्वेन क्रियाजनकत्वाभावात् कारकत्वानापत्तिरितिवाच्यम् । कपालनिष्ठजनकत्वस्य घटेआरोपेणदोषात् । बौद्धार्थकर्मत्वाद्वा । एवमपादानस्यापि क्रियाजनकत्वम् वृक्षाभावे पर्णविभागस्यैवासम्भवात् ।
नैयायिकास्तु— विभक्त्यर्थुद्वारा क्रियान्वयित्वं कारकत्वम्। क्रियाविषयतारिूपितविभक्त्यर्थविषयतानिरूपितविषयतांश्रयत्वमिति । स्तोकं पचतीत्यत्र क्रियाविशेषणस्य स्तोकस्य कारकत्ववारणाय विभक्त्यर्थमिति । चैत्रस्य तण्डुलं पचतीत्यादौ तु चैत्रस्य विभक्त्यर्थद्वारा क्रियान्वयित्वाभावान्न कारकत्वमिति परिष्कुर्वन्ति । कटेआस्ते स्थाल्यां पचतीत्यादौ कटस्थाल्योः कर्तृकर्मद्वाराक्रियान्वयित्वेन विभक्त्यर्थद्वारा क्रियान्वयित्वाभात् कारकत्वानापत्तेः, कर्तृरपि कारकतत्वानापत्तेश्चेति ।
कर्तृत्वञ्च — प्रकृतधातुवाच्यव्यापाराश्रयत्वम् । तेनप्रयोज्यप्रयोजकानुक्तकर्तृणां सर्वेषां संग्रहः । माषेष्वश्वं बध्नानीत्यत्र तु गलविलार्धःसंयोगानुकूलव्यापाराश्रयत्वेनाश्वस्य कर्तृत्वेऽपिप्रकृतधातुवाच्यव्यापाराश्रयत्वाभावान्नकर्तृत्वापत्तिरिति । कर्मत्वञ्च — प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयाज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्वेश्यत्वम् । इदमेवकर्मलक्षणे ईप्सिततमत्वम् । “गां पयो दोग्धि” अत्र पयसः कर्मत्वसिद्धये प्रयोज्यत्वनिवेशः । “प्रयागात् काशीं गच्छति” अत्र प्रयागस्य कर्मत्वकरणाय प्रकृतधात्वर्थफलेति ।
नैयायिकास्तु —धात्वर्थतावच्छेदकव्यापारव्याधिकरणफलशक्तित्वंकर्मत्वं । तादृशं च फलं गमेस्सयोगः त्यजेर्विभागः पतेरधोदेशसंयोगः । अधोदेशरूपकर्मणोधात्वर्थनिविष्टत्वादकर्मत्वेन, ‘पर्णं वृक्षात् भूमौ पतति’, इति प्रयोगः इति ।
करणत्वञ्च — स्वनिष्ठव्यापारव्यवधानेन फलनिष्पादकत्वम् । इदमेव साधकतमत्वम् । ‘रामेण वाणेन हतो वाली’ इत्यत्र वाणव्यापाराव्यवहितोत्तरफलानिव्यादकत्वं वाणस्येति लक्षणसमन्वयः 
क्रियामात्रकर्मसम्बन्धायक्रियायामुद्देश्यं यत् कारकं तत्वं सम्प्रदानत्वम् । । यथा ब्राह्मणाय गां ददातीत्यादौ दानक्रियाकर्मीभूतगोसंबन्धाय ब्राह्मणो दानक्रियोद्देश्यः । गोब्राह्मणयोः स्वस्वामीभवसम्बन्धः । विभागश्च न वास्तवसम्वन्धपूर्वको वास्तव एव किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको  बुद्धिपरिकल्पितोऽपि । माथुराः पाटलिपुत्रकेभ्य आदय इत्यादौ बुद्धिपरिकल्पितायामाश्रयणेनैव भाष्ये पञ्चमीसाधनात् ।
अधिकरणत्वञ्च — कर्तृकर्मद्वारकफलव्यापाराधारत्वम् । यथा स्थाल्यामोदनं गृहे पचतीत्यादौ कर्मद्वारकविक्ल्त्तििरूपफलाधारः स्थाली, कर्तृद्वारकव्यापाराधारो गृहमिति ।
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः सम्त्रन्धः षष्ठयावाच्यः । राज्ञः पुरुष इत्यादौ याश्रयि षष्ठीवाच्यसम्बन्धस्याश्रमाश्रयसम्बन्धेनपुरुषेऽन्वयः राजनिरुपितसम्बन्धवान् पुरुष इति बोधात् । अत्र सम्बन्धत्वेन रूपेण तत्तत्सम्बन्धे शक्तिः । एवञ्च शक्यतावच्छेदकस्यसम्बन्धत्वस्य कर्तृत्वकर्मत्वादिषु विद्यमानत्वात् सम्बन्धतत्वेन रूपेण षष्ठ्यर्थताऽस्त्येव । अत एव सम्बन्धत्वविवक्षायां सतां गतं सर्पिषो जानीते इत्यादौ षष्ठी साधिता सिद्धान्तकौमुद्यां इति प्राचीनानां मतम् ।
नवीनास्तु — न सम्बन्धत्वेन रुपेण स्वस्वामिभावादिसम्बन्ध षष्ठ्यावाच्यः । अत एव ‘एक शतं षष्ठ्यार्थाः’ इति सूत्रस्थं भाष्यं संगच्छते । राज्ञः पुरुष इत्यत्र स्वत्वस्वामित्वरूपःसमूहः षष्ठ्यर्थो न तु स्वत्वं स्वामित्वं वा तस्यैकमात्रवृत्तित्वात् सम्बन्धस्य च द्विष्ठत्वनियमात् । षष्ठ्यर्थसम्बन्धस्तु संसगविधयैव भासते न तु प्रकारविधया । एवञ्च राज्ञः पुरुष इत्यत्र स्वस्वामिभावसम्बन्धेनराज्ञविशिष्टः पुरुष इति बोधः ।
अत्र समासकृत्तद्धितैकशेषसनाद्यन्तधातुरूपाः पञ्चवृत्तयः सन्ति । अयं विभाग प्राचीनमतमेव । नवीनाक्तु —एक शेषस्यवृत्तित्वंनेच्छन्ति । परार्थान्वितस्वार्थोपस्थापकस्यैव वृत्तित्वात् तस्य च तत्राभावात् । अत एव समर्थः पदविधिः (पा.२।१।१) इति सूत्रस्याधिकारत्वपक्षे एकशेषासङ्ग्रह उक्तो भाष्ये । वृत्तिद्र्विधाजहत्स्वार्थाऽजहत्स्वार्था च । अवयवार्थनिरपेक्षित्वे सति समुदायार्थबोधिकत्वजहत्स्वार्थत्वम् । अवयवार्थसंवलितसमुदायार्थबोधिकात्वमजहत्स्वार्थत्वम् । रथन्तरं सामवेदः, शुश्रूषा सेवा इति पूर्वस्या उदाहरणम् । राजपुरुष इत्यादौ ।
समासादिपञ्चसु विशिष्टे एव शक्तिर्नत्ववयवे, रथन्तरं सप्तपर्णः शुश्रूषेत्यादौ अवयवार्थानुभवाभावात् । नैयायिकमीमांसाकादयस्तु — समासे शत्तिंm न स्वीकुर्वन्ति । राजपुरुष इत्यादौ सम्बन्धमानार्थमेव समुदायशक्तिः स्वीक्रियते । तत्र च समुदायशक्तिमन्तरापि राजपदस्य राजसम्बन्धिनि लक्षणायां सम्बन्धमानसम्भवे तदर्थ समुदायशक्तिर्नस्वीकार्या इत्याहुः । तन्न, समासे शक्त्यस्वीकारे विशिष्टस्यार्थक्त्वाभावेन प्रातिपदिकत्वं न स्यात्, एवञ्च दशदाडिमादिसमुदायस्य वृत्तिमत्वरूपार्थवत्वाभावान्न प्रतिपादिकत्वं भवति । भट्टमतानुयायिनस्तु — समासेषु न शक्तिः न वा लक्षणा, किन्तु समासोपस्थापितविग्रहवाक्यादेव बोधः श्लोकादावन्वयवाक्यादिवत् । अत एव ‘रामस्तत्पुरुषं प्राह बहुब्रीहि महेश्वरः । अन्येतु ऋषयः सर्वे कर्मधारयमूचिरे’ इत्यादौ विग्रहवाक्योपस्थित्यैव बोधः । एवं विग्रहसंदेहे बोधसन्देहोऽप्युपपद्यते इति वदन्ति तदपि न विग्रैहवाक्यमजानतामपि समासतोऽर्थबोधदर्शनाच्छक्तिमन्तरा तद्बोधानुपपत्ते । किञ्च “अन्य पदार्थे च संज्ञायाम्” (पा.सू.२।१।२१) इत्यादिना उन्मत्तगङ्गम्, लोहितगङ्गम्, अरण्येतिलका इत्यादौ वाक्येन संज्ञानवगमादिह नित्यसमास इत्युक्तम् । अत्र विग्रहवाक्यात् संज्ञावगभावेन समासशक्तिस्वीकारमृते न निर्वाह इत्यवश्यं विशिष्टंशक्ति स्वीकार्या इति भावः ।


सन्दर्भग्रन्थसूचिः
१. परमलघुमञ्जूषा -भट्ट: नागेश: महामहोपाध्याय: संस्कृतमहाविद्यालय:, महाराजसयाजिरावविश्वविद्यालयः बडौदा, २०१७ वि.सं ।
२. वाक्यपप्रदीपम् भर्तृहरिप्रणीतम् - संपूर्णानन्द संस्कृत विश्वविद्यालय, वाराणसी, २०३३ विसं, १९७६ ई.सं ।
३. व्याकरणशास्त्रेतिहास:  विमर्शः - डा. गौडाशोकचन्द्रः, भारतीयविद्यासंस्थानम्, वाराणसी, २०५५ वि.सं ।
४.वैयाकरणसिद्धान्तकौमुदी दीक्षितः भट्टोजीविरचिता - चौखम्बा संस्कृत सीरीज अफिस, वाराणसी–१, १९६८ ई.सं ।
५. लघुसिद्धान्तकौमुदी - श्रीमद्विद्वद्वरवरदाराजाचार्यविरचिता, गीताप्रेसगोरखपुरम् ., २०५३ विसं ।
                          

भवतः का प्रतिक्रिया ?

like
9
dislike
0
love
0
funny
0
angry
0
sad
0
wow
1