कथं संस्कृतभाषायां जागृता सुरुचिर्मम
ब्रह्मानन्दे भवाँल्लुब्धो वर्तते तर्हि श्रूयताम् । भाषामृतमिदं पीत्वा ब्रह्मानन्दमवाप्नुयात् ॥

-विमलदर्शनकोइराला
विज्ञानमेव सर्वस्वमन्यथा गतिरस्ति का ।
तेनैव विश्वकल्याणमात्मकल्याणमेव च ॥१॥
पाश्चात्यसंस्कृतिः रम्या पौरस्त्यसंस्कृतिर्न हि
सङ्कीर्णमनसा ह्येवं मतमासीत्पुरा दृढम् ॥२॥
केन मे पिहितं चक्षुर्न स्मरामि तथा परम् ।
श्रावयामि कथं वाञ्छा संस्कृतं प्रति जागृता ॥३॥
किं जातं सूक्तयो दृष्टाश्चाणक्यानां मिताः पुरा ।
श्लोकास्ते पठिता यावदुत्सुकोऽभूवमेव हि ॥४॥
भृशं केन घनत्वेनाऽर्थाणां श्लोकाः कथं कृताः ।
एवमुत्सुकतायां त्वन्वेषणं कर्तुमद्यतः ॥५॥
यावन्माघस्य दृष्टं तच्छब्दक्रीडामृतं मया ।
चकतोऽभूवमेवाऽहं निर्मातुं शक्यते कथम् ॥६॥
केषाञ्चिद्विदुषां वाचि काठिन्यं वर्तते तथा ।
दुर्बोधो भवति श्वासो निःश्वासो जायते मम ॥७॥
पञ्चतन्त्रं कथं वृत्तं बोधनं सरलं भवेत् ।
विष्णुशर्मा न वा विद्वान् विज्ञानं वचसोऽपि वा ॥८॥
अन्वेषणेन केनापि सूत्रं प्राप्तं महन्मया ।
सूत्रमेतन्महत्किन्तु श्रवणे सरलं भवेत् ॥९॥
संस्कृतस्याऽस्ति काठिन्यं हस्तयोर्विदुषां परम् ।
यदा यदुपयुक्तं स्यात्तत्तदैव प्रयुज्यते ॥१०॥
शब्दशास्त्रं यदा दृष्टं मया तद्गणितं स्मृतम् ।
अर्थास्ते गणितीयाः स्युः पदानां संस्कृते ननु ॥११॥
वर्णेषु शृङ्खला वा स्युः सूक्ष्मभेदाः परिष्कृताः ।
माधुर्यं वा भवेच्छन्दो योगो वर्णेषु वा भवेत् ॥१२॥
सर्वदा श्रवणानन्दो याति शक्तिरयं कथा ।
शोधस्य प्रेरणादात्री भाषेयञ्च परिष्कृता ॥१३॥
विज्ञानसम्मतं सर्वं वाञ्छामि स्म पुरा परम् ।
भाषासु संस्कृतं सिद्धमिदानीं कथ्यते मया ॥१४॥
ब्रह्मानन्दे भवाँल्लुब्धो वर्तते तर्हि श्रूयताम् ।
भाषामृतमिदं पीत्वा ब्रह्मानन्दमवाप्नुयात् ॥ १५॥
विज्ञानच्छात्रः सुषमागोदावरीमहाविद्यालयः इटहरी, सुनसरी ।
भवतः का प्रतिक्रिया ?






