वर्धयत आत्मशक्तिम्

अस्माकं जीवकोषान् लालयन्तः 'भवन्तः उत्तम सेवित्वा उत्तममेव विसृजन्तु , उत्तमतया श्वासोच्छ्वासं कुर्वन्तु , उत्तमतया चिन्तयन्तु आरोग्य करान् उत्तमान् सन्तानान् अभिवर्धयन्तु ' इति बोधयन्ति

वर्धयत आत्मशक्तिम्

अद्यत्वे कोरोना विषाणोः प्रसारः सर्वत्र दृश्यते , तद्विषये एव अहर्निशं चर्चा श्रूयते सर्वत्र च । येषां शरीरं शक्तिमत् ते एतेन रोगेण पीडिताः न भवन्ति , पीडिताः सन्तोऽपि अचिरात् एव ततः मुक्तिं प्राप्नुवन्ति च इति वचनमपि सर्वत्र श्रूयते । दुर्बलाः ततः मरणं प्राप्तुम् अर्हन्ति , सबलाः च मुक्तिम् इति तु कथनस्य सारः । 

एवं तर्हि रोगाणोः आक्रमणात् अस्मच्छरीरे किं प्रवर्तते इति अस्माभिः अवगन्तव्यम् । मानवशरीरे पञ्चशतलक्षकोट्यधिकाः जीवकोषाः भवन्ति । यथा वयं व्यवहरामः तथैव व्यवहरन्ति जीवकोषाः अपि । श्वसन्ति , खादन्ति , विसृजन्ति , सन्तानं वर्धयन्ति , चिन्तयन्ति च । यथा मानवजीवने वायुप्रकाशहरितादयः सहजाः , तथैव जीवकोषाणां जीवने शुद्धः वायुः शुद्धः आहारांशः च सहजः । जीवकोषे स्थिताः गुणाणवः ( डि.एन्.ए. ) बाह्यपरिसरानुगुणं प्रतिस्पन्दं दर्शयन्ति । कोषीय - जीव विज्ञानक्षेत्रे सेल् बायलाेजी ) अयं प्रतिस्पन्दस्वभावः ‘ एपिजेनेटिक्' शब्देन निर्दिश्यते ।  

बहिर्भागतः शरीरं प्रविष्टाः रोगाणवः सर्वादौ जीवकोषाणां नाशनं कुर्वन्ति । अतः ते गुणाणून् वदन्ति - ' भवन्तः नश्यन्तु । भवन्तः निष्क्रियाः भवन्तु ' इति । एतं सन्देशं प्राप्य गुणाणवः तदनुगुणं व्यवहरन्ति । तस्मात् तेषां नाशः भवति । ये विनाशकारिसन्देशं प्राप्य प्रतिस्पन्दं दर्शयेयुः ते एव , उत्तमपरिसरं निर्माय उत्तमसन्देशः दत्तः चेत् उत्तमव्यवहारमपि कुर्युः एव ननु ? आम् । गुणाणुषु तादृशव्यवहारसामर्थ्यमपि भवति ।

एवं तर्हि प्रश्नः उद्भवेत् एतम् ‘ एपिजेनेटिक्'स्वभावं परिष्कर्तुं कः मार्गः इति । तं परिष्कारमार्ग जानन्ति अस्माकम् आहाराः केचन आहारांशाः अस्माकं जीवकोषान् लालयन्तः 'भवन्तः उत्तम सेवित्वा उत्तममेव विसृजन्तु , उत्तमतया श्वासोच्छ्वासं कुर्वन्तु , उत्तमतया चिन्तयन्तु आरोग्य करान् उत्तमान् सन्तानान् अभिवर्धयन्तु ' इति बोधयन्ति । एतत् बोधनम् श्रुत्वा जीवकोषाः तदनुगुणतया व्यवहरन्ति आहारांशाः ब्लाकिङ्ग एजेण्ट् ' इति ' बायो एक्टिव् सब्स्टेन्सस् ' वा निर्दिश्यन्ते । एतेषु फिनालिक् कम्पौण्ड् , प्लेवनाय्ड् , ऐसो प्लेवनाय्ड् , कौमरिन् , लिम्निन् , आन्थोसायनिन् इत्यादयः बहवः अंशाः भवन्ति । 'एतादृशैः अंशैः युक्तम् आहारम् अन्विष्य वयं कुुत्र गच्छेम ? तादृशस्य आहारस्य महार्घता अपि स्यात् इति चिन्तयेयुः ननु भवन्तः । तादृशी चिन्ता करणीया नास्ति भवद्भिः । यतः ते सर्वे अंशाः भवन्ति अस्माभिः प्रतिदिनं सेव्यमानेषु उपस्करपदार्थेषु ।
 
कुस्तुम्बरी , जीरिका , मेथिका , मरीचः , हरिद्रा, लशुनं , हिड्गुु: , पलाण्डुः , आमलकं , जम्बीरं , नारङ्गं , मरीचिका , ब्राह्मी इत्यादिषु ते आहारांशाः भूयसा भवन्ति । एते आहारपदार्थाः प्रतिदिनम् उपयुज्यन्ते पाके । प्रायः एतान् विना न भवति एव पाकक्रिया गृहेषु । अन्यच्च एते पदार्थाः निर्धनैः अपि प्राप्तुं योग्याः । अल्पेन मूल्येन सर्वैः प्राप्याः च । एतेषु केचन गृहपरिसरे कुण्डेषु वर्धयितुं योग्याः अपि  ।केचन चिन्तयेयुः – “ एते किं वा साधयेयुः ? एतेषां सेवनं प्रतिदिनम् अस्माभिः क्रियते एव ततः कोऽपि परिणामस्तु लक्ष्यते ' इति । अस्माभिः स्मर्तव्यं यत् औषधेषु उपशमनसामर्थ्यवृद्ध्यर्थम् अत्रत्यान् अंशान् संस्कुर्वन्ति अतः एते न उपेक्षार्हा: । 

मनसः आरोग्यस्य च कश्चन सम्बन्धः भवति । वयं मनसि यादृशानि चिन्तनानि प्रवर्तयामः तादृशः प्रभावः जायते इति प्रायः सर्वे जानन्ति । जीवकोषाणां बाह्यकवचस्य चिन्तनशक्तिः इति 'सेल्बायलाेजी'क्षेत्रीयः डा.ब्रूस् एच् लिप्टनः प्रयोगैः प्रमाणीकृतवान् अस्ति । सात्त्विक मनः अध्यात्मिकशक्तिं वर्धयति , ततः देहस्य आरोग्यं वर्धते च अस्मच्छास्त्राणि वेदाः च एतदेव बोधयन्ति । 

'मम किमपि जातम् अस्ति ' इति वयं यदि चिन्तयन्तः भवेम तर्हि ततः एपिजेनेटिक्तत्त्वे हानिकरः प्रभावः भवति , ततः देहः क्षयदशां प्राप्नोति च । अतः एव बालाः यदा अनिष्टकराणि वाक्यानि वदेयुः तदा ज्येष्ठाः वदन्ति ‘ अश्विनीदेवते ( स्वास्थ्यरक्षण - कर्तारौ देवौ ) तथास्तु इति वदिष्यतः। अतः एतादृशानि वाक्यानि मा वद ' इति । गर्भिणी यदि स्वस्थमनस्का स्यात् तर्हि गर्भस्थः शिशुः अपि सुखम् अनुभवति इति वदन्ति प्राज्ञाः । मातुः संवेदनाः गर्भस्थः शिशुः अनुभवति इत्ययं विषयः अद्यत्वे विज्ञानसिद्धः अस्ति एव । एतत् एव तत्त्वम् अवलम्ब्य प्रतिदिनं वयम् ' आरोग्यमस्तु ' इति वदन्तः - ‘ अत्रिणा त्वा क्रिमे हन्मि । कण्वेन जमदग्निना । विश्वावसोर्ब्रह्मणा हतः । क्रिमीणां राजा । अन्येषां स्थपतिर्हतः । अथो माताथो पिता । अथो स्थूला अथो क्षुद्राः । अथो कृष्णा अथो श्वेताः । अथो आशातिका हताः श्वेताभिः सह सर्वे हताः । ' इति कृष्णयजुर्वेदीयं मन्त्रं ( प्रपाठकः ४ अनुवाकः ३६ ) यदि जपेम तर्हि रोगनिरोधकशक्तिः अवश्यमेव वर्धेत । 

डा.लिप्टनः एतदपि वदति यत् जीवकोषस्थानि 'रिसेप्टर् अण्टिना' नामकानि अङ्गानि शब्दतरङ्गानुगुणं स्पन्दं दर्शयन्ति इति । अस्माकं योगशास्त्रे उच्यते ओङ्कारतरङ्गाः अस्मासु गुणात्मकशक्तिं वर्धयन्ति इति । १९५२ तमे वर्षे ब्रिटन्देशीयः डा . अल्बर्टमसानवर्यः मन्त्रशक्त्या रोगोपशमनं साधयितुं शक्यम् इति प्रति पादितवान् । अतः स्पष्टं यत् ओङ्कारोच्चारणात् , वेद मन्त्राणां पठनात् च रोगनिरोधकशक्तिः वर्धते इति ।

सामाजिकान्तरपालनं स्वच्छतासंरक्षणम् इत्यादयः बाह्यक्रियाः । तासाम् अनुष्ठानेन सहैव पूर्वोक्तस्य आहारक्रमस्य अनुसरणात् , योग ध्यानादिभ्यः शरीरे रोगनिरोधकशक्तेः वर्धनं प्राप्यताम् । रोगनिरोधकशक्तेः सद्भावे विषाणवः अस्मान् स्पृष्ट्या अपि प्रतिनिवर्तेरन् । तदभावे तु अस्मान् अन्विष्य आगत्य नाशाय प्रवर्तेरन् । अतः शरीरस्य आन्तरशक्तेः वृद्धयै सर्वैः अपि प्रयतनीयम् ।


                                                                                                सम्राट गाैतम
                                                                                   ( विषयसङ्ग्रह जालपुटात् )

भवतः का प्रतिक्रिया ?

like
3
dislike
0
love
0
funny
1
angry
0
sad
0
wow
0