दूरशिक्षणप्रविधौ संस्कृतम्

संस्कृतम्

दूरशिक्षणप्रविधौ संस्कृतम्

                                                                                                                                  डा.भवानीशङ्करः भट्टराई
                                                                                                                                   पिण्डेश्वरविद्यापीठं, धरान:


 सञ्जालेन सञ्चारेण वा दूरत: शिक्षणं दूरशिक्षणम् । आधुनिक–भाषायां कथिते सति अनलाइनमाध्यमेन सञ्चारेण वा पाठनं दूरशिक्षणम् । अधुना समग्रे जगति कोभिड–१९ इत्यस्य महामारी चलन्ती वर्तते, अत: प्रत्यक्षेण सञ्चालिता: सकला: शैक्षिककार्यक्रमा निरुद्धा: सन्ति । नेपालेऽपि चैत्रस्य द्वितीयसप्ताहात् प्रत्यक्षपाठनं परीक्षाश्चावरुद्धा: सन्ति । अत: सकला: छात्रा: किंकर्तव्यविमूढा: सन्त: सञ्जालसञ्चालनेन, सञ्जालखेलेन, गेहे सहयोगेन च समयं यापयन्तो वर्तन्ते । एतन्मध्ये शिक्षकाभिभावकौ वैकल्पिकविधिनाऽध्यापनं सम्भवं न वेति पक्षविपक्षाभ्यां तर्कन्त सन्ति । 
 संस्कृतभाषा स्थिरा प्रविध्यनुकूला च मन्यते तथापि नैपाला: संस्कृतशिक्षालया भाषामिमां आधुनिकप्रविधौ न नियोजितवन्त:, अतोऽधुना संस्कृतं पारम्परिकगतिनैव प्रवहदस्ति, लोकोऽपि भाषामिमां शास्त्रीयभाषात्वेनैव  व्यवहरन्नस्ति । नैपाला: संस्कृतेतरा विश्वविद्यालया अनुप्रयोग (सफ्टवेयर) निर्माणविधिं शिक्षयन्तोऽपि संस्कृतं न पाठयन्तीति ते भाषामिमां प्रविधौ न निवेशयन्तीति निश्चितमेव, अतो वैदेशिका: कदा प्रविधिना सह संस्कृतं संयोजयन्तीति प्रतीक्षणं, तावदवधि संस्कृतस्य गुणगायने समयव्यतीतश्चास्माकीनां दैनन्दिनं जातम् । 
 अधुनातनोऽर्थवशीभूतो यान्त्रिक: समाजो व्यावसायिकीं भाषां प्रविधिमैत्रीं शिक्षाञ्च गृह्णातीति सुविदितमेव । आधुनिकेन चक्षुषाऽवलोकिते संस्कृतं न तु व्यावसायिकं नापि प्राविधिकम् । एतत्तु ज्ञानकेन्द्रितं, इहपरलोकयोर्मार्गदर्शकम्। संस्कृते स्थितेन ज्ञानवैभवेनाकर्षिता: सन्तोऽपि प्रायो युवान: प्राविधिकीं व्यवसायिकीञ्च शिक्षामेव चिन्वन्त इति आधुनिकस्य समाजस्य वास्तविकी स्थिति: । संस्कृतस्य पाठ्यक्रमनिर्माणे संलग्ना: प्रौढा गुरवस्तु पञ्चाशद् वर्षपूर्वं यदधीतवन्त: तमेव पाठ्यक्रमं शाश्वतं सत्यमिति मन्वाना:, प्रविधिना सह संस्कृतसंयोजनविधिमजानन्तश्च तात्कालिकं पाठ्यक्रममेवाऽधुनापि प्रस्तुवन्तीति तत्र दूरत: शिक्षणविधि:, प्राविधिकैराधुनिकै: विषयै: सह संस्कृतस्य मेलश्च असम्भवमेव । एतादृश्या परम्परितपद्धत्या पठनपाठनंसञ्चालयद्भि: नैपालै: संस्कृतशिक्षालयै: दूरप्रविधिना पाठनविषये न सर्वकारोऽभिप्रेरित:, सर्वकारेणापि न तु नीतिगतनिर्णयो कृत: । एतादृश्यां दुरवस्थायामपि, दूरत: शिक्षणस्य पूर्वाधारेष्वविद्यमानेष्वपि नेपालसंस्कृतविश्विद्यालयेन दूरत: कक्षासञ्चालनाय यन्निर्दिष्टं, कतिभि: संस्कृतानुराभिश्च यथाप्राप्तं वैयक्तिकं पूर्वाधारं प्रयुज्य भाषाशिक्षणायाभियानं यत् सञ्चालितं तदपि बहु इति मत्वा स्वागतं कुर्म: । 
संस्कृतशिक्षणे प्रविधिप्रयोग: संस्कृतस्य केषु केषु विषयेषु दूरत: शिक्षणं सम्भवति ? तादृशशिक्षणेन को लाभ: ? एतादृशे शिक्षणे का: काश्च समस्या आयान्तीति पर्यवेक्षणं प्रस्तुतलेखस्योद्देश्यमतस्तद्विषये किञ्चिद् वच्म: ।  प्रविधिचक्षुषाऽवलोकिते सति संस्कृते मूलत: चतुर्विधा: पाठ्यसामग्य्र: प्राप्यन्ते–सैद्धान्तिकी, आस्वादनसमीक्षणमूला, प्राविधिकी प्रायोगिकी च । सिद्धान्तं व्याख्यात्री सामग्री सैद्धान्तिकी, अर्थात्–व्याकरणसाहित्यदर्शनादीनां शास्त्रीयविषयाणां सिद्धान्तव्याख्यात्री सैद्धान्तिकीति वयं जानीम एव । एतादृशीनां सामग्रीणां ख्यापनं प्रवचनटिप्पणक्रियाप्रतिक्रियादिभिर्विधीयते । उच्चतरासु कक्षासु एतादृश्या पद्धत्या पाठनं सुकरमपि मन्यते, अतोऽत्र शक्तिविन्दु (पावरप्वाइन्ट) शब्द (वर्ड) चित्रापण (फोटोसप) प्रभृतिभि: प्राविधिकानुप्रयोगसहयोगैर्जुम–गुगलक्लासरुम–ह्याङआउट–जिमिट–टिमसदृशैर्माध्यमैश्च प्रतिशतमशीति सङ्ख्याधिकं विषयवस्तु बोधयितुं शक्यम् । शिवराजविजय–यदुवंशमहाकाव्य–शाकुन्तलनाटकप्रभृतीनां समीक्षणमूलानां द्वितीयविधानां कृतीनां पाठनं, तेषां समीक्षणव्याख्यानमपि प्राय: पूर्वोक्तेनैव विधिना कर्तुं शक्यम् । यद्यपि सिद्धान्तव्याख्यानत एतत् किञ्चिद् भिन्नम्, यद्यप्येतेषां शिक्षणे शब्दार्थाख्यापनं, पङ्क्तिलापनं, कोशालङ्कारादिभिरेतेषां व्याख्यानमावश्यकमनुभूयते, यद्यप्येतेषां शिक्षणे प्रश्नोत्तरात्मिका, प्रदर्शनीया, व्याख्यानमूला च शैली युज्यते तथापि तानि सर्वाणि कार्याणि पूर्वोक्तैरनुप्रयोगै: साध्यमिति हेतोरेतासां सामग्रीणां शिक्षणमपि दूरत: सम्भवम् । संस्कृतपाठने प्रयुज्यमाना तृतीयप्रकारिका सामग्री प्राविधिकी वर्तते । व्याकरणस्य रूपसाधनानि, ज्योतिषान्तर्गतं गणितं तथान्येऽपि कतिपये तादृशा विषया: प्रत्यक्षमाध्यमेन पाठनीया भवन्ति । यस्य शिक्षणे, कक्षाप्रकोष्ठे स्थिते भित्तपट्टे बहुलेखनं, लिखितानां सामग्रीणां पुन: संशोधनं, सूत्रख्यापनं, प्रमाणीकरणं, प्रश्नोत्तरेण बोधनमित्यादीनि कार्याण्यपेक्षितानि । यद्यप्येतेषामध्यापनं दूरतोऽसम्भवप्रायन्तु नास्ति तथापि सकलसामग्रीबोधनायाऽपर्याप्तं स्यादिति मन्ये । शिक्षालयेषु स्मार्टवोर्डव्यवस्थापनेन, प्राविधिकक्षनिर्माणेन, शिक्षकेभ्य: प्रशिक्षणप्रदानेन च विषयवस्तु हस्तामलकवद् भविष्यतीति वक्तुं शक्यम् । अनेनाधिकाधिकेषु प्राविधिकेषूपायेष्ववलम्बितेष्वपि योगायुर्वेद–खगोलशास्त्र–प्राकृतिकचिकित्सा–कर्मकाण्ड– प्रभृतीनां चतुर्थप्रकारकाणां प्रायोगिकाणां विषयाणां साङ्गोपाङ्गमध्यापनन्तु दु:साध्यमेव । तत्र स्थिता: प्रयोगबोध्या:, परीक्षणीया:, प्रदर्शनीया:, उपकरणनिर्भरा:, स्थलनिरीक्षणेन बोधनीयाश्च सामग्य्रो दूरत: पाठयितुं न शक्यन्त इति निश्चितम्, तत्र वैषयिकपरिचय एव सम्भव: ।
दूरत: शिक्षणे समस्या अनुप्रयोगेण श्रव्यदृश्यसाधनेन च यद्यपि संस्कृतं पाठयितुं शक्यम्, तथापि नेपालसदृशानामल्पविकसितानां देशानां कृते विधिरसौ भारकर: । अत्रत्या विद्युद्धारा न स्थिरा, सामग्रीसम्प्रेषकमन्तर्जालमपि न स्थिरं, यदस्ति तदपि न सार्वत्रिकं, विद्यमानेषु स्थानेष्वपि छात्राणां क्रयणशक्तिर्नास्ति, पाठ्यक्रमविकाशकेन्द्रेण निर्मित: पाठ्यक्रमोऽपि न प्रविध्यनुकूल:,पठनपाठने संलग्ना जनशक्तिरपि न प्रविधिनिपुणा, आङ्ग्लभाषायां निबद्धोऽनुप्रयोगोऽपि संस्कृतजनशक्तीनां कृते दुर्बोध्यतर एतादृश्य अनेका: समस्या: दूरत: शिक्षणाभ्यासक्रमेऽनुभूयमाना: सन्ति । अत्रैतादृशी: समस्या: –नीतिनिर्माणसम्बद्धा, प्राविधिकी, आर्थिकी, व्यवस्थापकीया, भाषिकी चेति विभाज्य तासां चर्चां कुर्म: ।
 संस्कृतशिक्षालयेषु दूरशिक्षणप्रविधिप्रयोगाय नीतेव्र्यवधानं प्रथमा समस्या । अद्यावधि न तु संस्कृत– विश्वविद्यालयेन, नापि विद्यालयीय–पाठ्यक्रमनिर्मात्रा च प्रविधेरनुकूलता साधिता । विषवस्तुन: सम्प्रेषणे प्रविधे: प्रयोग: कथं विधेय:, कया शैल्या पाठनीय:, अभ्यास: कथं देय:, मूल्याङ्कनं कथं कार्यमुपस्थिति: कथं विधेयमित्यादिषु विषयेषु सर्वेऽपि पाठ्यक्रमा: मौनं भजन्त इति प्रविधिप्रयोगे नीतिनिर्माणाभाव: प्रथमा समस्या । दूरत: शिक्षणे द्वितीया बाधा प्रविधेर्वर्तते । अस्माकीनमन्तर्जालं प्रायो दुर्गमेषु न प्राप्तं, प्राप्तं सदपि समानगतिना न चलतीति क्षणे क्षणेऽवरोधोऽस्य महती बाधा । तथैव शिक्षकविद्र्यािर्थषु प्राविधिकज्ञानाभावोऽपि महती समस्या, प्राविधिकज्ञानं विनैव सेवाप्रविष्टा: शिक्षका:, तैरध्यापिता: छात्रा उभावपि प्रविधिषु शून्यप्राया: सन्तीत्येता अपि समस्यैव । दूरत: शिक्षणे दृष्टा तृतीया समस्याऽर्थिकी वर्तते, प्रायो निर्धना: छात्रवृत्तिषु निर्भराश्च छात्रा हि संस्कृतं पठन्ति । तेषां कृते सुसाङ्ख्य(डेक्सटप)–क्रोडसुसाङ्ख्य     (ल्यापटप)– लघुसुसाङ्ख्य (ट्याबलेट) प्रभृतीनामुपकरणानां क्रयणं, महार्हे जाले नियोजनञ्च न सरलं, अत: शिक्षणसंस्थाभिर्यथाकथञ्चित् प्रविधेव्र्यवस्थायां कृतायामपि प्रायश: छात्रा नानुबध्यन्ते, अत: कस्मै पाठनीयमिति जटिला समस्या । तथैव– दुर्गमेषु स्थानेषु प्रयोगशालानिर्माणं, तत्रोपकरणप्रयोग:,  तत्र दक्षजनशक्ते: प्राप्ति:, क्षतेषूपकरणेषु पुनरुद्धार:, विद्युदन्तर्जालादीनां  तत्रत्या दु:स्थिति: प्रभृतयोऽनेका व्यवस्थापकीया: समस्या: अपि सन्ति । संस्कृतगुरुभ्य: छात्रेभ्यश्च भाषिकी समस्या अपि जटिलैव वर्तते । प्राय आङ्ग्लभाषास्वपरिचिता संस्कृतजनशक्तिराग्लै: परिकल्पितेष्वनुप्रयोगेषु प्रतिक्षणं दिग्भ्रमिता भवन्तीति प्रविधिप्रवेशे भाषिकी समस्यापि महत्तमा । 
सम्भावना 
 यदि वयं दूरत: शिक्षणस्य पूर्वाधारं पूरयित्वैव कार्यक्रममारम्भयामश्चेत् इतोऽपि बहूनि वर्षाणि पूर्वाधार एव गमिष्यन्तीति निश्चितम्, अतो नेपालसदृशे विकाशोन्मुखे देशे समस्यायामापतितायां सामान्यं पूर्वाधारं व्यवस्थाप्य कार्यक्रमा: सञ्चाल्यन्ते । घुणाक्षरन्यायेन प्रविधे: प्रयोगश्च क्रियते, तादृशेनाभ्यासेन नीतिनिर्माणाय तदनु पाठ्यक्रमपरिवर्तनाय च निगमनात्मको दिङ्निर्देशो मिलिष्यति । एतादृशेन कार्येण नीतिनिर्मातृभ्य:, शिक्षकेभ्य: छात्रेभ्यश्च प्रविधिप्रयोगे चेतो जागरिष्यति, बलं मिलिष्यतीति च घुणाक्षरेण कृत: प्रविधिप्रयोगोऽपि सकारात्मको जायते ।
भिन्नरुचिर्हि लोक इति नियमात् केचनेतिहासज्ञानाय, कति प्राकृतिकचिकित्सायुर्वेदादीनां प्राविधिकविषयाणां पठनाय, कति धर्मशास्त्रेष्ववगाहनाय, कतिचन पौराणिाध्यात्मिकैतिहासिकसांस्कृतिकीनां सामग्रीणां प्रबोधनाय,  सार्वजनिकजीवनाद् निवृत्ता: कति तु स्वान्त:सुखाय च संस्कृतं पिपठिषन्ति । तथैव दैशिका वैदेशिकाश्च कतिपये जना: प्राचीनं राजनीतिं बोद्धुं, प्रशासनव्यवस्थामधिगन्तुं, नयव्यवस्थां ज्ञातुं, धार्मिकसामाजिकजीवनं पर्यवेक्षयितुं, हिन्दूसंस्कृतिमवगन्तुमपि संस्कृतं पठन्ति । परमेते शिक्षालयं समागत्य पठितुं न पारयन्ति/नेच्छन्तीति तेषां कृते दूरत: शिक्षणमावश्यकम्, नैपाला: संस्कृतशिक्षालया एतान् लक्ष्यीकृत्याल्पकालिकं दीर्घकालिकंञ्च भाषिकं प्रशिक्षणं सञ्चालयितुं शक्नोति । तथैव संस्कृतान्तर्गतान् विविधान् विषयानवबोधयितुं वैषयिकं प्रशिक्षणमपि कर्तुं शक्नोति, एतेन कार्यभारहीना शिक्षका अपि युज्यन्ते, कार्यालयसमये अन्यत्र व्यस्ता छात्रा अपि आकर्षन्त इति महती सम्भावनात्र । संस्कृतशिक्षालयेन सञ्चालनीय एतादृशे प्रशिक्षणे प्रथमत: शिक्षका: तत: छात्रा: प्रशिक्षिता भविष्यन्तीति स अपि लाभ एव । अत्राभ्यस्तेषु जातेषु प्राक्शास्त्रिप्रशिक्षणं तत: कक्षाकार्यमपि दूरत एव सञ्चालयितुं शक्यते । लोकस्य संस्कृतं प्रति रुचिर्वर्तते, परं विवशो लोको भाषामिमां पठितुमसमर्थो दृश्यते, अत: संस्कृतशिक्षालयैरप्यत्र स्थिता: समस्या अपनीय भाषिकप्रशिक्षणं पठनपाठनञ्च सञ्चालनीयं, तथाकृते न्यूनेनार्थिकभारेण छात्रेषु लाभोऽपि मिलिष्यति, प्रयोक्तारोऽपि प्रवद्र्धन्त इति आशास्यते । 

 (एषः आलेखः गाेरखापत्रपत्रिकायामपि प्रकाशितः अस्ति)

भवतः का प्रतिक्रिया ?

like
24
dislike
0
love
5
funny
2
angry
0
sad
0
wow
0