गण्डकीप्रदेशस्तरीय - संस्कृतलोकभाषाभियानगोष्ठी पूर्णा
जनार्दननेपालः साधारणविद्यालयेषु संस्कृतशिक्षायाः पाठ्यक्रमनिवेशे सम्भाव्याः समस्याः तन्निराकरणोपायांश्च निरदिशत् ।
गतस्य श्रावणमासस्य १७ तमे दिनाङ्के गण्डकीप्रदेशस्तरीयसंस्कृतलोकाभियानगोष्ठी अन्तर्जालीयदृश्योपस्थिविधिना सम्पन्ना । गोष्ठीयं संस्थायाः अध्यक्षस्य डा.बद्रीपोखेलस्य साभापत्ये सम्पन्ना आसीत् ।
अस्यां गोष्ठ्यां १००८ श्रीसमलङ्कृताः ज्ञानानन्दसरस्वतीमहाराजाः प्रमुखातिथयः आसन् । एवमेव १००८ श्रीसमलङ्कृताः स्वामिनः रमणानन्दगिरिमहाराजाः , प्राज्ञः मुकुन्दशरणोपाध्यायः , प्रा.दुर्गाप्रसाददाहालश्च कार्यक्रमस्य विशिष्टातिथयः अभवन् ।
कार्यक्रमे प्रमुखवक्त्रा प्रा.डा.माधवप्रसादपोखरेलमहाभागेन नेपाले संस्कृतलोकभाषाभियानम् इति शीर्षकमवलम्ब्य विश्वव्यापितया स्वविचाराः प्रहिताः । तेन स्वाभिव्यक्तौ संस्कृतस्य लोकभाषात्वप्रमापकानि व्यक्ति - संस्था - जाति - धर्म - संस्कृति - काव्यादि नामकरणप्रभृतीनि अनेकप्रमाणानि प्रस्तुतानि । कार्यक्रमस्य अपरः प्रमुखो वक्ता पूर्वसचिवः संस्कृतस्याभियन्ता जनार्दननेपालः साधारणविद्यालयेषु संस्कृतशिक्षायाः पाठ्यक्रमनिवेशे सम्भाव्याः समस्याः तन्निराकरणोपायांश्च निरदिशत् ।
गोष्ठ्यां प्राज्ञः मुकुन्दशरणोपाध्यायः , गण्डकीप्रज्ञासभायाः अध्यक्षः डा . नारायणअधिकारी , विश्वहिन्दुमहासंघस्य केन्द्रीयोपाध्यक्षः शङ्करखरालः , जयतुसंस्कृतं संस्थायाः गण्डकीप्रदेशसमित्याः परामर्शदः डा.लेखनाथ आचार्यः , महेशसन्यासगुरुकुलस्य प्राचार्यः सहप्रा.डा . गुरुप्रसादसुवेदी च अन्ये महत्त्वपूर्णा वक्तारः अभवन् ।
गोष्ठ्यां जयतु संस्कृतंसंस्थायाः गण्डकीप्रदेशसमित्या अध्यक्षेण प्रा.डा.शालिग्रामसुवेदिना स्वागतमन्तव्यम् उपस्थापितम् आसीत् । गोष्ठ्यां जयतु संस्कृतं संस्थायाः सदस्यसचिवः डा . नवराजकट्टेलः कार्यक्रमस्य औचित्यं प्राकाशयत् ।
बाबुरामअर्यालः , शिवबहादुररेग्मी , डा.मतिप्रसादढकालः , रामचन्द्रकण्डेलः , गणेशपौडेलः , डा.भवानीशङ्कर भट्टराई , डा.महानन्दतिमल्सिना . वासुदेवकाफ्ले , सुनीलउपाध्यायः , कपिलदेवभट्टराई , गोदासुवेदी , कृष्णप्रसादपौडेल:, पार्वतीभण्डारी , शङ्करगिरी , कृष्णज्ञवाली , अन्ये वक्तारश्च सहभागितया उपास्थाय संक्षिप्त मन्तव्यम् उपास्थापयन् ।
अस्य कार्यक्रमस्य संयोजन सञ्चालनञ्च डा . जगन्नाथरेग्मिमहोदयेन विहितम् आसीत् । अस्यापि प्राविधिक संयोजनम् अमेरिकादेशतः आचार्यपिप्पलमणि सिग्देलमहोदयेन नेपालाच्च वसन्त आचार्येण विहितम् । कार्यक्रमे ७५ तोऽपि अधिकसंख्यायां विद्वांसः संयोजिताः आसन् । कार्यक्रमस्यान्ते सभाध्यक्षः डा.बद्रपोखेलः सर्वान् विदुषः कृतज्ञतावचोभिः सम्मान्य सभां पूर्णा व्यदधात् ।
गोरखापत्रात् साभारित: