धूर्तमतिधनदासयो: चरित्रम् (लघुकथा )

जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च

धूर्तमतिधनदासयो: चरित्रम्  (लघुकथा )
आनन्दपुरे धनदासः धूर्तमतिश्चेति द्वौ प्रतिवेशिनौ न्यवसताम् । तयोः धनदासः अतिलोभाविष्ट , धूर्तमतिश्च वञ्चनानिपुणः । 
अथ कदाचित् धूर्तमतिना चिन्तितम् , " लुब्धः एषः धनदासः अतीव मूर्खः । अतः केनाप्युपायेन वञ्चयेयम् ” । एवं विचिन्त्य एकदा धनदासगृहमागत्य तेनोक्तम् ,  " भोः धनदास , श्वः मम गृहं बहवः आप्ताः आगमिष्यन्ति । तेषां कृते पर्याप्तानि भाण्डानि मम गृहे न सन्ति । अतः भवता कानिचन भाण्डानि दीयन्ताम् । अवसिते प्रयोजने प्रत्यर्पयेयं तानि " इति । तथेति उक्त्वा धनदासेन तस्मै कानिचन भाण्डान्यदीयन्त । 
अपरेद्युः धूर्तमतिः भाण्डानि प्रत्यर्पयितुं धनदासगृहमागतः । तेन यथापूर्वं गृहितानि सर्वानि भाण्डानि आनितानि , तथा अन्यानि नूतनानि लघूनि भाण्डान्यपि । नुतनभाण्डानि दृष्ट्वा चकितेन धनदासेन भाषितम् , " भद्र , न एतानि भाण्डानि मम वर्तन्ते ।"  तत् श्रृत्वा उच्चैर्विहस्य धूर्तमतिना भणितम् , " अये , त्वया दत्तानि भाण्डानि मम गृहे रात्रौ प्रासुवत । तवैव भाण्डानामपत्यानि नूतनानि भाण्डानि एतानि । निःसंदेहं स्वीकृयन्तामेतानि भवता " इति । लोभाविष्टः धनदासः तानि स्वीकृत्य प्रमुदितः संजातः । 
अथ गच्छता कालेन धूर्तमतिः पुनः धनदासं भाण्डानि प्रार्थयत । पुनरेकवारं बहूनि भाण्डानि लभेयाहमित्याशया धनदासेन तस्मै बहूनि भाण्डानि अदीयन्त । 
तदनन्तरम् अतीतः मासः एकः । तथापि धूर्तमतिः भाण्डानि न प्रत्यार्पयत् । चिन्ताकुलेन धनदासेन धूर्तमतिमागत्य भाण्डानि अयाचयन्त । "तव तानि सर्वाणि भाण्डानि मृतानि । "  इति धूर्तमतेः प्रत्युत्तरं श्रुत्वा क्रुद्धेेन धनदासेन गदीतम् , " रे वञ्चक , अपि विश्वसनीयं तव एतद् वचः ? अचेतानि भाण्डानि म्रियन्ते किम् ? अलीकं तव वचनम् ” इति । तदा शान्तस्वरेण धूर्तमतिरभाषत , " भद्र , अलं कोपेन । यथा पूर्वं भाण्डानि जातानि , तथा इदानि मृतानि । ” यतः जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ” इति । 
तत् श्रुत्वा अधोमुखः धनदासः गृहमव्रजत् ।

भवतः का प्रतिक्रिया ?

like
2
dislike
0
love
1
funny
0
angry
0
sad
1
wow
0