लघुकथा

"यदि अहंम् आंग्लभाषां अज्ञास्यत् तर्हि ईदानीं अपि सेवकः एव अभविष्यम् ।"

लघुकथा

कश्मिन्चित् समये एकः अतीव इमान्दारः परिश्रमी च युवक आसीत्।सः सामान्यपरिवारतःआसीत्।सः एकस्मिन् कार्यालये सेवकरुपेण कार्यं करोति स्म। तत्कार्यालये एकवारं परदेशतः केचन अतिथयः आगतवन्तः। ते अतिथयः केवलं आंग्लभाषायामेव वार्तालापं कुर्वन्ति स्म।ते अन्यभाषाः न जानन्ति स्म। ते भ्रमणार्थम् आगतवन्तः। ते सेवकेन सह मिलित्वा कार्यालयस्य बिषये केचित् प्रश्नाः आंग्लभाषायामेव पृष्टवन्तः परन्तु आंग्लभाषाभावेन सेवकः सम्यक्तया प्रश्नानां उत्तराणि दातुं असमर्थ अभवत्। ते सेवकेन सह रुष्टं भूत्वा अन्यत्र गतवन्तः पुनः न आगतवन्तः।यदा तस्य कार्यालयस्य प्रमुखः  इमानि  कार्याणि ज्ञातवान् तदा क्रोधेन सेवकं कार्यालयतः निष्कासितवान्। ततःसेवकःअत्यन्तः निराशः अभवत्। सः अत्यन्तपरिश्रमी आसीत् तस्मात् कारणात् शोकं त्यक्त्वा एकं व्यापारं प्रारम्भः कृतवान् ।व्यापारे कस्मिन्चित् समये एव साफल्यं सर्वत्र प्रसिद्धिं च प्राप्य प्रसिद्धः वणिक् अभवत्। एकवारं एकप्रसिद्धः सञ्चारमाध्यमः अन्तर्वार्तां नेतुं आगतवान्। अन्तर्वार्तायां व्यापारीं एकप्रश्नं पृष्टवान्,"यदि भवान् आंग्लभाषाम् अपि अज्ञास्यत् तर्हि भवतः व्यापारस्य इतोSपि अन्तराष्ट्रियकरणं अभविष्यत्,परन्तु भवान् किमर्थं आंग्लभाषां ज्ञातुं न इष्टवान् वा नेच्छति? "ततः व्यापारी प्रत्युत्तरं दत्तवान्,"यदि अहंम् आंग्लभाषां अज्ञास्यत् तर्हि ईदानीं अपि सेवकः एव अभविष्यम् ।"

                                                                                      
 - पीताम्बरः अधिकारी    

   चन्द्रगढी,  झापा

भवतः का प्रतिक्रिया ?

like
12
dislike
1
love
0
funny
4
angry
0
sad
0
wow
2