एकः परमः देवभक्तः अस्ति । सः प्रतिदिने भक्त्या देवस्य प्रार्थनां करोति । "देव कृपया मह्यं आरोग्यं ददातु, धनं च ददातु” इति । सः किञ्चिदपि प्रयत्नं न करोति, कार्यञ्च न करोति । देवः साहाय्यं करिष्यति इति तस्य विश्वासः ।
एकस्मिन् दिने सः वृषभशकटे गच्छति स्म । मृण्मार्गः आसीत् । तदा वृष्टेः आरम्भः अभवत् । घटिकात्रयं वृष्टिः निरन्तरम् आगतवती । तदा तस्य षकटस्य चक्रं मार्गे अन्तर्गतम् । सः उपविश्य "देव! कृपया साहाय्यं करोतु, अहै परमभक्त अस्मि, कृपया साहाय्यम् करोतु ” इति प्रार्थनां कृतवान् ।
तदा मार्गे एकः सज्जन आगतवान् । भक्तं दृष्ट्वा पृष्टवान् " भो मित्र! किञ्चित् साहाय्यम् आवश्यकं वा ? " इति । तदा भक्त उक्तवान् "भवतः साहाय्यं न आवश्यकम् । देवः अस्ति । सः एव साहाय्यं करोति" इति । ततः सज्जनः गतवान् ।
किञ्चित् समयानन्तरम् अन्यश्च एकः आगतवान् । सः अपि तदैव पृष्टवान् "भो मित्र! किञ्चित् साहाय्यम् आवश्यकं वा ? ” इति । तदा पुनः भक्तः उक्तवान् "भवतः साहाय्यं न आवश्यकम् । देवः अस्ति । सः एव साहाय्यं करोति” इति । सः अपि गतवान् ।
इदानीं वृष्टिः अधिका अभवत् । जलं तस्य कन्ठपर्यंतम् आगतम् । तदा पुनः एकः आगतवान् , पृष्टवान् च " भो मित्र ! किंचित् साहाय्यम् आवश्यकं वा ?” इति । तदा भक्तः पुनः उक्तवान् " भवतः साहाय्यं न आवश्यकम् । देवः अस्ति । सः एव साहाय्यं करोति" इति । सः अपि गतवान् ।
वृष्टिः अधिका अभवत् । सः जले मृतवान् । तदा सः स्वर्गं गतवान् । सः देवं पृष्टवान् " भाे देव! अहम् भवतः परमभक्तः । यदा मम कष्टः अभवत्, भवान् किञ्चिदपि साहाय्यं न कृतवान् । भवान् मां द्रष्टुमपि न आगतवान् । एतादृशं किमर्थम् ?
तदा देवः उक्तवान् "रे भक्त! अहं तत्र त्रिवारम् आगतवान् । पृष्टवान् च । 'साहाय्यम् अवश्यकं वा ?” इति । परंतु भवान् न स्वीकृतवान् । यदि भवान् प्रयत्नम् एव न करोति चेत् , अहं त्वां साहाय्यम् करोमि ? "
तदा भक्तस्य ज्ञानोदयः जातः । यदि वयमपि प्रयत्नं न कुर्मः, तर्हि देवः अस्मान् कथं साहाय्यम् करोति ?
अतः प्रयतनीयः । कृते प्रयत्ने किं न लभेत?
एकम् उक्तञ्च-
उद्यमः साहसः धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः साहाय्यकृत् ॥