मूर्खभृत्यस्य कार्याणि (लघुकथा )
वरं भृत्यविहिनस्य जिवितं श्रमपूरितम् । मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥
"अरे शंखनाद , गच्छापणं , शर्कराम् आनय । " इति स्वभृत्यं शंखनादं गोवर्धनदासः आदिशति । ततः शंखनादः आपणं गच्छति , शर्कराम् जीर्णे वस्त्रे न्यस्यति च । तस्मात् जीर्णवस्त्रात् मार्गे एव सर्वापि शर्करा स्त्रवति । ततः गोवर्धनदासः कोपेन शंखनादं वदति , " अरे मूढ , कुत्रास्ति शर्करा ? शर्करादिकम् एवम् जीर्णेन वस्त्रेण न एवानयन्ति कदापि । इतःपरं किमपि वस्तुजातं दृढायां सन्चिकायां निक्षिप्य आनय च " इति ।
अत्रान्तरे गोवर्धनदासस्य पुत्र : " श्वानशावकम् आनय ” इति शंखनादम् आदिशति । आज्ञापालकः शंखनादः श्वानशावकं सन्चिकायाम् क्षिपति , सन्चिकां वस्त्रेण आच्छादयति च । तेन शावकस्य श्वासः रुध्दः भवति । सः च श्वानशावकः पञ्चत्वं गच्छति । तदा गोवर्धनदासः शंखनादम् अभिधावति क्रोधेनाक्रोशति च ," धिक् मुढ , श्वानादिकं दोरकेण बद्धवा आनयन्ति इति अपि नावगच्छसि किम् ? " इति ।
ततः कदाचित् गोवर्धनदासस्य भार्या " दुग्धम् आनय ” इति तस्मै कथयति । सः आपणं गच्छति पात्रे दुग्धम् आदाय दोरकेण बद्धवा कर्षति ।मार्गे पात्रं लुठति । पात्रात् दुग्धं सर्वत्र प्रवहति । तेन हताशः गोवर्धनदासः तं वदति " भो महापंडित , अपसर ; कृष्णं भवतु ते मुखम् ” इति ।
तदा आज्ञापालकः शंखनादः बहिः गच्छति कज्जलेन मुखं लिम्पति । तेन तस्य मुखं कृष्णं भवति । ततः कृष्णमुखः सः प्रत्यागच्छति । गोवर्धनदासः विरुपं तं पश्यति आत्मानम् एव निन्दति ललाटं हस्तेन ताडयति वदति च । वरं भृत्यविहिनस्य जिवितं श्रमपूरितम् । मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥