न पातुं चिराय्यम् । -कविता
न पातुं चिराय्यम् देशदेशं रटित्वा न लाभो दृष्यतान्देशमेतद्विनष्टम् ।
- कविः रमेशः खकुरेलः
काष्ठमण्डपम्
न पातुं चिराय्यम् देशदेशं रटित्वा
न लाभो दृष्यतान्देशमेतद्विनष्टम् ।
स्नेहमात्रेण किं चर्वितव्यं
मानवत्वं यदा सम्प्रणष्टम्।।
नास्ति देहे धने वा सुरक्षा
मन्दिरे रुध्यते यत्र पूजा ।
ईश्वरे नास्ति विश्वासभावो
वित्तमात्रं महत् संप्रवृत्तम् ।।
ज्ञानविज्ञानवेत्ता तुरीयः
शस्त्रसामर्थ्यशाली वरीयः ।
मूढबुद्धिर्जनो राजनेता
आत्मसंपोषणं मुख्यकार्यम् ।।
भज्यते क्षुद्रराज्येषु देशो
वर्ध्यते जातिवादिप्रवृत्तिः ।
अत्र दीनायते राष्ट्रभाषा
संस्कृतं नाम नोच्चारणीयम्।।
शान्तिकामेष्वशान्तिर्निधत्ता
न्यायकामेषु दण्डः प्रपात्यः ।
धर्मकामेष्वधर्मस्य भारो
नास्ति कश्चिज्जनस्त्रातुकामः ।।
बुद्धिमद्भिर्जनैरत्र शोच्यं
नैव भीत्या क्वचिद्वै पलाय्यम् ।
त्राहि मां क्रन्दते मातृभूमि:
भाे युवानो न पातुं चिराय्यम् ।।