नामधेयेन किं फलम् (लघुकथा)

यत् पुरुषः एव गुणवान् , दोषवान् वा भवति , न तस्य नाम्नि कोऽपि गुणः दोषः वा वर्तते ।

नामधेयेन किं फलम् (लघुकथा)
सीत्   पुरा तक्षशिला नाम नगरी । नगर्यां तस्यां कश्चित् विद्वान् आचार्यः अवर्तत् । तस्य बहवः शिष्याः । पापकः नाम तेषु एकः अभवत् । 
पापकः इति स्वकीयनामधेयं तस्मै नारोचत , यतः तस्य सहाध्यायिनः ' अरे पापक , अरे दुष्ट ' इति सततमुक्त्वा तं पीडयन्ति स्म । 
एकदातीव पीडितः सः गुरुमागत्य अभाषत , "आचार्य , मह्यं मम नामधेयं न रोचते , अपरं शोभनार्थाभिधानं यच्छतु भवान् मह्यम् ' इति । 
त्वमेव देशान्तरं गत्वा किमपि प्रियं नामधेयम् अन्विष्य आगच्छ । तदेव तव नाम प्रसिध्दं भवेत् इति गुरुणा आदिष्टः सः । 
तथेत्युक्त्वा , पाथेयं गृहित्वा पापकः यात्राम् आरभत । प्रथममेव शवं गृहित्वा श्मशानं गच्छतः जनान् अवलोक्य ' कोऽयं मृतः ' इति कुतूहलेन अपृच्छत् । ” अस्माकं ' जीवकः ' नाम वयस्यः मृतः ” , इति तेभ्यः आकर्ण्य विस्मितः सः मनस्यकरोत् , यद्यपि एतस्य नामधेयं ' जीवकः ' तथापि एषः मृतः । कथमेतत् संभवेत् इति । 
अनन्तरं काचिद् दीना वनिता विलोकिता तेन । सा च निर्जने अरण्ये रोदिति स्म । पापकेन सा पृष्टा । "का त्वं ? किमर्थं रोदिषि ? ” तदा सा अकथयत् , " धनपाली नाम दासी अहम् । वृध्दवस्थायां मम समीपे किञ्चिदपि धनं नास्ति । दरिद्रा अहं कथमन्नं लभेय इति रोदिमि ” । अभिधानं तु ' धनपाली ' , तथापि निर्धना , आश्चर्य खलु एतत् इति सः व्यमृशत् । 
तदनन्तरं सः कञ्चन संभ्रान्तं पुरुषं दृष्टवान् । मार्गात् भ्रष्टः सः स्वमार्गम् अन्विष्यन् इतस्ततः परिभ्रमति स्म । " कः त्वम् ? कुतः परिभ्रम्यते त्वया ? " इति पृष्टे सः अकथयत् " पथकः इत मम नामधेयम् इदानिं तु अहमेव इष्टमार्ग नावगच्छामि । ' एतस्य नाम तु पथकः ' स्वयमेव मार्ग न जानाति इति विस्मितः सः प्रत्यागत्य गुरुं प्रणम्य अवदत् , " आचार्य , मार्गे मया जीवकः ' मृतः दृष्टः , ' धनपाली ' निर्धना अवलोकिता , पथकः च अनभिज्ञामार्गः । अतः सम्यक् ज्ञातं मया यत् पुरुषः एव गुणवान् , दोषवान् वा भवति , न तस्य नाम्नि कोऽपि गुणः दोषः वा वर्तते । केवलं नामधेयेन किं फलम् ? "

भवतः का प्रतिक्रिया ?

like
6
dislike
0
love
0
funny
1
angry
0
sad
0
wow
0