पिण्डेश्वरविद्यापीठेनायोजितं पञ्चदशदिवसात्मकं सम्भाषणम्

कार्यक्रमोऽयं भाद्रमासस्य चतुर्थदिवसतः अष्टादशदिवसपर्यन्तं सञ्चालित आसीत् ।

पिण्डेश्वरविद्यापीठेनायोजितं पञ्चदशदिवसात्मकं सम्भाषणम्


–डा.महानन्दतिमिल्सिना


नेपालसंस्कृतविश्वविद्यालयस्याङ्गिकविद्यापीठरूपेण विद्यमानेन धरानस्थेन पिण्डेश्वरविद्यापीठेन पञ्चदशदिवसात्मकः संस्कृतसम्भाषणकार्यक्रमः समायोजितः । कार्यक्रमोऽयं भाद्रमासस्य चतुर्थदिवसतः अष्टादशदिवसपर्यन्तं सञ्चालित आसीत् ।

जूमप्रविधिना सञ्चालितेऽस्मिन् कार्यक्रमे द्विशताधिकानां सहभागिनां उपस्थितिरासीत्  ।  कार्यक्रमे नेपालस्य विविधप्रदेशात् समुपसथितैः सहभागिभिर्वैदेशिकैः सहभागिभिश्च संस्कृतसम्भाषणस्याभ्यासो विहितः . सन्ध्याकालस्याष्टवादनतः सार्धनववादनपर्यन्तं सञ्चालिते कार्यक्रमे पिण्डेश्वरविद्यापीठस्य प्राचार्यः प्रा.डा.चन्द्रमणिनेपालः सभापतित्वेन विराजित आसीत् ।

कार्यक्रमे पञ्चदशसङ्ख्यकैः प्रशिक्षकैः सहभागिनः प्रशिक्षिताः . कार्यक्रमे  सहप्रा.डा.गुरुप्रसादसुवेदी, विमलचन्द्रदाहालः, उपप्रा.दीपकपराजुली, मनोजभण्डारी, उपप्रा.डा.महानन्दतिमिल्सिना, उपप्रा.डा.नेत्रविनोदभट्टराई, सहप्रा.डा.खेमराजखनालः, उपप्रा.डा.भवानीशङ्करभट्टराई, आकाशनीलम्, सहप्रा.डा.रमेशघिमिरे, आचार्यमधुसुदनः, उपप्रा.सुमनखतिवडा, सहप्रा.सागरमणिसुवेदी, चक्रपाणिनेपालः, प्रा.डा.काशिनाथन्यौपाने च प्रशिक्षकाः आसन् । 

तत्र कार्यक्रमसञ्चालकत्वेन उपप्रा.टीकारामदाहालः, लेखनाथभट्टराई, पुष्पपराजुली, घनश्यामभण्डारी, रामानुजकृष्णः, विमलदर्शनकोइराला, महेश्वरकोइराला, लक्ष्मीखनालः, रत्नावलीशर्मा चेति संस्कृतसाधकाः आसन् ।

देवघाटस्थस्य महेशसंस्कृतगुरुकुलस्य प्राचार्येण सहप्रा.डा.गुरुप्रसादसुवेदीमहाभागेन द्वादशदिनपर्यन्तं कार्यक्रमस्य समीक्षणं विहितम् ।  अनन्तरं कार्यक्रमे सहप्रा.मुकुन्दलामिछाने-डा.रोहिणीराजतिमिल्सिनाभ्यामपि समीक्षणं कृतमासीत् । कार्यक्रमेऽस्मिन् विविधस्थानात् संस्कृतविद्वांसः विदुष्यश्च प्रमुखातिथिरूपेण समुपस्थिता आसन् । तत्र वाराणसीतः प्रा.डा.हरिप्रसादाधिकारी–डा.विश्वनाथधितालौ, काष्ठमण्डपतः डा.नवराजकट्टेल–प्रा.जगत्प्रसादउपाध्याय–डा.नारायणगड्तौला–प्रा.डा.माधवशरणउपाध्याय–सहप्रा.प्रियम्बदाम्बाआचार्याः, विराटनगरतः १००८ स्वामीअच्युतप्रपन्नाचार्यः, झापातः छन्दुरामभण्डारी, पोखरातः डा.लेखनाथआचार्यः, अमेरिकादेशतः डा.स्थानेश्वरतिमिल्सिना, स्वीडेनदेशतः आनन्दहिमानी चेति संस्कृतसाधकाः समुपस्थिता आसन् ।

कार्यक्रमे प्राविधिकरूपेण महर्षिफाउन्डेसनसंस्थायाः प्रतिनिधयः मीनराजाधिकारी–अभिमन्युनेपाल–जीवनपौडेलमहाभागाः आसन् । तथैव मनोजखनालः, गोविन्दनिरौला च प्राविधिकसहयोगिनौ स्तः । कार्यक्रमे प्रा.डा.भीमखतिवडा–पिपलमणिसिग्देलप्रभृतिभिर्विद्वद्भिर्मन्तव्यं प्रदत्तमासीत् । कार्यक्रमस्य समापनसमारोहे नेपालसंस्कृतविश्वविद्यालयस्य उपकुलपतिः प्राध्यापकः रमेशढकालः समुपस्थित आसीत् । कार्यक्रमे समुपस्थितै अतिथिभिः संस्कृतभाषायाः महत्त्वं प्रकाशितम् । कार्यक्रमेणानेन संस्कृतस्य प्रचारे प्रसारे च समुल्लेख्यं योगदानं प्रदत्तमिति तत्रस्थैः संस्कृतानुरागिभिर्निगदितम् ।

प्रशिक्षार्थिनः प्रशिक्षकान् प्रविधिसंयाेजकांश्च विद्यापीठेन प्रमाणपत्रमपि प्रदत्तम् ।

भवतः का प्रतिक्रिया ?

like
6
dislike
0
love
0
funny
0
angry
0
sad
1
wow
1