सम्बन्धस्य रक्षणम्

सीमारेखाविषयकः विवादः अत्र विशेषप्राधान्यम् आवहति । एतस्य निवारणाय यद्यपि केचन नियमाः रचिताः भवन्ति , तथापि औद्धत्यस्वभावाः देशाः तान् नियमान् उपेक्ष्य दौष्ट्यम् आचरन्ति

सम्बन्धस्य रक्षणम्

अन्यावलम्बनं विना कोऽपि देशः जीवितुं न शक्नोति । देशस्य दैनन्दिनजीवनसम्बद्धाः बहवः अंशाः अन्यान् देशान् अवलम्बन्ते । देशयोः देशानां वा मध्ये अनेके सन्धयः अङ्गीकृताः अङ्गीकरणीयाः वा भवन्ति । जागतिकसंस्थाभिः निर्णीताः अंशाः सर्वैः अपि देशैः अभ्युपगन्तव्याः भवन्ति । अस्मद्देशे जाताः अन्यस्मिन् देशे उद्योगादिनिमित्तं ये वसेयुः तेषां हितं रक्षणीयं भवति । एतादृशैः बहुभिः कारणैः देशानां परस्परसम्बन्धः भवति जागरूकतया निर्वोढव्यः ।।

ये प्रतिवेशिनः भवेयुः तेषां सम्बन्धस्य निर्वहणे अन्ये अपि क्लेशाः भवन्ति बहवः । सीमारेखाविषयकः विवादः अत्र विशेषप्राधान्यम् आवहति । एतस्य निवारणाय यद्यपि केचन नियमाः रचिताः भवन्ति , तथापि औद्धत्यस्वभावाः देशाः तान् नियमान् उपेक्ष्य दौष्ट्यम् आचरन्ति । तस्य सम्मुखीकरणाय स्वशक्तिः प्रदर्शनीया भवति एव । शक्तिमन्तः देशाः अन्यस्य देशस्य शक्तिं ह्रासयितुं , तस्य देशस्य असहायकतां जनयितुं च अविरतप्रयासं कुर्वन्ति प्रच्छन्नतया । एतादृशानां कृत्यानां पृष्ठभूमिकायां भवन्ति अनेकविधानि तन्त्राणि । कः देशः कदा कीदृशं पदं निक्षिपेत् , तस्य कः परिणामः कदा सम्भवेत् इत्यादिकस्य अवगमनं भवति महते क्लेशाय । कस्य औद्धत्यस्य निग्रहाय कीदृशं तन्त्रम् अवलम्बनीयम् इत्येतत् सर्वदा चिन्तनीयं भवति । सर्वे अपि देशाः स्वहितमेव प्राधान्येन चिन्तयन्ति । तदवसरे अन्यस्य हितं बाधाग्रस्तं भवेत् चेदपि तद्विषये उपेक्षां वहन्ति ते । मार्गे गच्छन् जनः स्वयं नियमान् पालयन् चिन्तयेत् यत् मम रक्षणस्य न कापि बाधा इति । तेन मार्गेण गच्छन्ति यानादीनि अपि नियमान् लोपं विना पालयेयुः चेदेव तस्य पादचारिणः रक्षणं सिद्धयेत् । अन्यथा तु यानचालकेन कृतात् नियमभङ्गात् अपि नियमपालकः पादचारी अपघातपात्रतां प्राप्नुयात् एव ननु ? आधुनिकतन्त्रज्ञानविकासम् उपयुज्य जगतः कोणे स्थितः कश्चित् जगतः कस्मिंश्चिदपि भागे उत्पातं जनयितुम् अर्हति । युगपत् एव बहुषु देशेषु उत्पातं जनयित्वा विकृतानन्दं प्राप्तुम् अर्हति , अन्याय्यमार्गेण स्वहितं साधयितुम् अर्हति च । तावदेव न , कयोश्चित् देशयोः कलहः बहुषु देशेषु महान्तं परिणामं जनयितुम् अर्हति अपि ।

एतस्य सर्वस्य कारणात् एव देशस्य नेतृत्वम् ऊढवद्भिः विशेषजागरूकता वोढव्या भवति । प्रत्यक्षतया , परोक्षतया , प्रच्छन्नतया , दूरदृष्टिपोषकतया वा पदानि निक्षेप्तव्यानि भवन्ति । देशहितैकदृष्टिः , दूरदर्शिता इत्यादीनि अवलम्ब्य व्यवहरणीयं भवति । यदि अत्र अप्रमत्तता न आश्रीयेत तर्हि देशस्य हितं बाधाग्रस्तं भवेत् इत्यत्र नास्ति सन्देहः ।

भवतः का प्रतिक्रिया ?

like
3
dislike
0
love
0
funny
0
angry
0
sad
0
wow
0