शठं प्रति शाठ्यम्  

लघुकथा

शठं प्रति शाठ्यम्  
आसित् कलापुरं नाम किंचन नगरम् । रसिकवरः नाम भूपतिः तत्र शासनं करोति स्म । यद्यपि सर्वाः कलाः तस्य प्रियाः , तथापि चित्रकलायां विशेषानुरागः । विविधदेशेभ्यः कुशलचित्रकाराः तमागच्छन्ति स्म । भूपालः तेभ्यः विपुलं धनं यच्छति स्म । महिपतेः गुणज्ञतया उदारतया च ते अतीव संतुष्टाः भवन्ति स्म । 
धनलुब्धः नाम तस्य भुपतेः कश्चन द्वारपालः अवर्तत । सः मनसि अकरोत् अहमेव चित्रकारानेतान् नृपसभायां प्रवेशयामि । तेनैव ते विपुलं धनं विन्दन्ते । तर्हि मयापि तेभ्यः धनं लब्धव्यम् इति । एवं विचिंत्य स सर्वान् चित्रकारान् पारितोषिकस्यार्धं याचितुं प्रारभत् । केचन स्वेच्छया , केचन अनिच्छया तस्मै धनं यच्छन्ति स्म , यतः तस्य अनुज्ञां विना राजदर्शनम् अशक्यमेवासीत् । 
एकदा चतुरबुद्धिः नाम कश्चिद् अद्वितीयः चित्रकारः तं पार्थिवम् द्रष्टुमैच्छत् । धनलुब्धः तमभणत् ” यदि पारितोषिकस्यार्धं मह्यं यच्छेः , तर्हि एव त्वां राजानं दर्शयामि ” इति । कंचित्कालं विचार्य चतुरबुद्धिः तमन्वमन्यत् । 
चतुरबुद्धेः अतुलनियं चित्रं दृष्ट्वा प्रसन्नः नृपः अभाषत " अहो नयनान्दकारं ते चित्रम् । किं पारितोषिक कामयसे ? ” इति । चतुरबुद्धिः अगदत् " देव , दशकशाघातान् पारितोषिकत्वेन इच्छामि ” इति । चित्रकारस्य विलक्षणया प्रार्थनया चकिताः सर्वे सभाजनाः , विस्मितः नृपः अपि । चित्रकारः वारं वारं तदेव पारितोषिकमाचयत । अतः नृपः सिद्धः जातः । तदा चतुरबुद्धिः " क्षणं तिष्ठतु तिष्ठतु अन्नभवान् " इत्युक्त्वा सभातः निर्गतः द्वारपालेन सह प्रत्यागत्य नृपायाकथयत् " देव , मम पारितोषिकस्यार्धमेतेन . "  याचितम् , मया प्रतिश्रुतम् च । अतः पञ्च प्रहाराः मह्यं दातव्याः पञ्च एतस्मै " इति । द्वारपालस्य शाठ्यं  ज्ञात्व राजा तमदण्डयत् , चतुरबुद्धये च प्रभूतं धनमयच्छत् ।

भवतः का प्रतिक्रिया ?

like
1
dislike
0
love
0
funny
0
angry
0
sad
0
wow
0